(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.207. अध्यायः 207
Mahabharata - Vana Parva - Chapter Topics
मधुकैटभपुत्रेण धुन्धुना तपस्तोषिताद्विरिञ्चादवध्यत्वादिवरग्रहणेन देवानां पीडनम् ॥ 1 ॥ उदङ्कचोदितेन कुवलाश्वेन समुद्रमध्यमधिवसतस्तस्य ब्रह्मास्त्रेण दहनम् ॥ 2 ॥ तदा देवादिभिः कुवलाश्वस्य धुन्धुमार इति नामकरणेन तस्मै वरदानपूर्वकं स्वस्वस्थानंप्रति गमनम् ॥ 3 ॥ मार्कण्डेयेन युधिष्ठिरंप्रति तत्पुत्राणां नामकथनपूर्वकं धुन्धुमारोपाख्यानस्तवनम् ॥ 4 ॥
Mahabharata - Vana Parva - Chapter Text

मर्कण्डेय उवाच। 3-207-0x(2468)(24061)
धुन्धुर्नाम महाराज तयोः पुत्रो महाद्युतिः।
स तपोऽतप्यत महन्महावीर्यपराक्रमः ॥ 3-207-1(24062)
अतिष्ठदेकपादेन कृशो धमनिसंततः।
तस्मै ब्रह्मा ददौ प्रीतो वरं वव्रे स च प्रभुम् ॥ 3-207-2(24063)
देवदानवयक्षाणां सर्पगन्धर्वरक्षसाम्।
अवध्योऽहं भवेयं वै वर एष वृतो मया ॥ 3-207-3(24064)
एवं भवतु गच्छेति तमुवाच पितामहः।
स एवमुक्तस्तत्पादौ मूर्ध्ना स्पृष्ट्वा जगाम ह ॥ 3-207-4(24065)
सतु धुन्धुर्वरं लब्ध्वा महवीर्यपराक्रमः।
अनुस्मरन्पितृवधं द्रुतं विष्णुमुपागमत् ॥ 3-207-5(24066)
सतु देवान्सगन्धर्वाञ्जित्वा धुन्धुरमर्षणः।
बबाध सर्वानसकृद्विष्णुं देवांश्च वै भृशम् ॥ 3-207-6(24067)
समुद्रवालुकापूर्णे उज्जानक इति स्मृते।
आगम्य च स दुष्टात्मा तं देशं भरतर्षभ।
बाधतेस्म परं शक्त्या तमुदङ्काश्रमं विभो ॥ 3-207-7(24068)
अन्तर्भूमिगतस्तत्र वालुकान्तर्हितस्तथा।
मधुकैटभयोः पुत्रो धुन्धुर्भीमपराक्रमः ॥ 3-207-8(24069)
शेते लोकविनाशाय तपोबलमुपाश्रितः।
उदङ्कस्याश्रमाभ्याशे निःश्वसन्पावकार्चिषः ॥ 3-207-9(24070)
एतस्मिन्नेव काले तु राजा सबलवाहनः।
कुवलाश्वो नरपतिरन्वितो बलशालिनाम् ॥ 3-207-10(24071)
सहस्रैरेकविंशत्या पुत्राणामरिमर्दनः।
प्रायादुदङ्कसहितो धुन्धोस्तस्य वधाय वै ॥ 3-207-11(24072)
तमाविशत्ततो विष्णुर्भगवांस्तेजसा प्रभुः।
उदङ्कस् नियोगेन लोकानां हितकाम्यया ॥ 3-207-12(24073)
तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत्।
एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति ॥ 3-207-13(24074)
दिव्यैश्च पुष्पैस्तं देवाः समन्तात्पर्यवाकिरन्।
देवदुन्दुभयश्चापि नेदुः स्वयमनीरिताः ॥ 3-207-14(24075)
शीतश्च वायुः प्रववौ प्रयाणे तस्य धीमतः।
विपांसुलां महीं कुर्वन्ववर्ष च सुरेश्वरः।
`प्रदक्षिणाश्चाप्यभवन्वन्यास्तं समृगद्विजाः' ॥ 3-207-15(24076)
अन्तरिक्षे विमानानि देवतानां युधिष्ठिर।
तत्रैव समदृश्यन्त धुन्धुर्यत्र महासुरः ॥ 3-207-16(24077)
कुवलाश्वस्य धुन्योश्च युद्धकौतूहलान्विताः।
देवगन्धर्वसहिताः समवैक्षन्महर्षयः ॥ 3-207-17(24078)
नारायणेन कौरव्य तेजसाऽऽप्यायितस्तदा।
स गतो नृपतिः क्षिप्रं पुत्रैस्तैः सर्वतो दिशम् ॥ 3-207-18(24079)
अर्णवं स्वानयामास कुवलाश्वो महीपतिः।
`हितार्तं सर्वलोकानामुदङ्कस्य वशे स्थितः' ॥ 3-207-19(24080)
कुवलाश्वस् पुत्रैश्च तस्मिन्वै वालुकार्णवे।
सप्तभिर्दिवसैः स्वात्वा दृष्टो धुन्धुर्महाबलः ॥ 3-207-20(24081)
आसीद्धोरं वपुस्तस्य वालुकान्तर्हितं महत्।
दीप्यमानं यथा सूर्यस्तेजसा भरतर्षभ ॥ 3-207-21(24082)
ततो धुन्धुर्महाराज दिशमावृत्य पश्चिमाम्।
सुप्तोऽभूद्राजशार्दूल कालानलसमद्युतिः ॥ 3-207-22(24083)
कुवलाश्वस्य पुत्रैस्तु सर्वतः परिवारितः।
अभिद्रुतः शरैस्तीक्ष्णैर्गदाभिर्मुसलैरपि ॥ 3-207-23(24084)
प्टसैः परिधैः प्रासैः खङ्गैश् विमलैः शितैः।
सवध्यमानः संक्रुद्धः समुत्तस्थौ महाबलः ॥ 3-207-24(24085)
क्रुद्धश्चाभक्षयत्तेषां शस्त्राणि विविधानि च।
आस्याद्वमन्पावकं स संवर्तकसमं तदा ॥ 3-207-25(24086)
तान्सर्वान्नृपतेः पुत्रानदहत्स्वेन तेजसा।
मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव ॥ 3-207-26(24087)
क्षणेन राजशार्दूल पुरेव कपिलः प्रभुः।
सगरस्यात्मजान्क्रुद्धस्तदद्भुतमिवाभवत् ॥ 3-207-27(24088)
तेषु क्रोधाग्निदग्धेषु तदा भरतसत्तम।
तं प्रबुद्धं महात्मानं कुम्भकर्णमिवापरम्।
आससाद महातेजाः कुवलाश्वो महीपतिः ॥ 3-207-28(24089)
तस्य वारिमहाराज सुस्राव बहु देहतः।
तत्तदापीयतेतेजो राज्ञा वारिमयं नृप ॥ 3-207-29(24090)
योगी योगेन सृष्टं स समयित्वा च वारिणा।
ब्रह्मास्त्रेण ततो राजा दैत्यंक्रूरपराक्रमम्।
ददाह भरतश्रेष्ठ सर्वलोकभवाय वै ॥ 3-207-30(24091)
सोऽस्त्रेण दग्ध्वा राजर्षिः कुवलाश्वो महासुरम्।
सुरशत्रुममित्रघ्नस्त्रैलोक्येश इवापरः ॥ 3-207-31(24092)
धुन्धोर्वधात्तदा राजा कुवलाश्वो महामनाः।
धुन्धुमार इतिख्यातो नाम्ना समभवत्ततः ॥ 3-207-32(24093)
प्रीतैश्च त्रेदशैः सर्वैर्महर्षिमसितैस्तदा।
परं वृणीष्वत्युक्तः स प्राञ्जलिः प्रणतस्तदा।
अतीव मुदितो राजन्निदंवचनमब्रवीत् ॥ 3-207-33(24094)
दद्यां वित्तं द्विजाग्र्येभ्यः शत्रूणां चापि दुर्जयः।
सख्यं च विष्णुना मे स्याद्भूतेष्वद्रोह एव च।
धर्मे रतिश् सततं स्वर्गे वासस्तथाऽक्षयः ॥ 3-207-34(24095)
तथाऽस्त्विति ततो देवैः प्रीतैरुक्तः स पार्थिवः।
ऋषिभिश्च सगन्धर्वैरुदङ्केन च धीमता ॥ 3-207-35(24096)
संभाष्य चैनं विविधैराशीर्वादैस्ततो नृषम्।
देवा महर्षयश्चापि स्वानि स्तानानि भेजिरे ॥ 3-207-36(24097)
तस्य पुत्रास्त्रयः शिष्टा युधिष्ठिर तदाऽभवन्।
दृढाश्वः कपिलाश्वश्च भद्राश्वश्चैव भारत ॥ 3-207-37(24098)
तेभ्यः परम्परा राजन्निक्ष्वाकूणां महात्मनाम्।
[वंशस्य सुमहाभाग राज्ञाममिततेजसाम्] ॥ 3-207-38(24099)
एवंसं निहतस्तेन कुवलाश्वेन सत्तम।
धुन्धुर्नाम महादैत्यो मधुकैटभयोः सुतः ॥ 3-207-39(24100)
कुवलाश्वश्च नृपतिर्धुन्धुमार इति स्मृतः।
नाम्ना च गुणयुक्तेन तदाप्रभृति सोऽभवत् ॥ 3-207-40(24101)
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि।
धौन्धुमारमुपाख्यानं प्रथितं यस्य कर्मणा ॥ 3-207-41(24102)
इदं तु पुण्यमाख्यानं विष्णोः समनुकीर्तनम्।
शृणुयाद्यः स धर्मात्मा पुत्रवांश्च भवेन्नरः ॥ 3-207-42(24103)
आयुष्मान्भूतिमांश्चैव श्रुत्वा भवति पर्वसु।
न च व्याधिभंयकिंचित्प्राप्नोति विगतज्वरः ॥ 3-207-43(24104)

इति श्रीमन्महाभारते अरण्यपर्वणि गार्कण्डेयसमास्यापर्वणि सप्ताधिकद्विशततमोऽध्यायः ॥ 207 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-207-30 वृष्टिं सगमयित्वाविचारिणा इति क. थ. पाठः। वह्निं च शमयामास वारिणा इति झ. पाठः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.