|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.207. अध्यायः 207
Mahabharata - Vana Parva - Chapter Topics
मधुकैटभपुत्रेण धुन्धुना तपस्तोषिताद्विरिञ्चादवध्यत्वादिवरग्रहणेन देवानां पीडनम् ॥ 1 ॥ उदङ्कचोदितेन कुवलाश्वेन समुद्रमध्यमधिवसतस्तस्य ब्रह्मास्त्रेण दहनम् ॥ 2 ॥ तदा देवादिभिः कुवलाश्वस्य धुन्धुमार इति नामकरणेन तस्मै वरदानपूर्वकं स्वस्वस्थानंप्रति गमनम् ॥ 3 ॥ मार्कण्डेयेन युधिष्ठिरंप्रति तत्पुत्राणां नामकथनपूर्वकं धुन्धुमारोपाख्यानस्तवनम् ॥ 4 ॥
Mahabharata - Vana Parva - Chapter Text
मर्कण्डेय उवाच। 3-207-0x(2468)(24061)
धुन्धुर्नाम महाराज तयोः पुत्रो महाद्युतिः।
स तपोऽतप्यत महन्महावीर्यपराक्रमः ॥ 3-207-1(24062)
अतिष्ठदेकपादेन कृशो धमनिसंततः।
तस्मै ब्रह्मा ददौ प्रीतो वरं वव्रे स च प्रभुम् ॥ 3-207-2(24063)
देवदानवयक्षाणां सर्पगन्धर्वरक्षसाम्।
अवध्योऽहं भवेयं वै वर एष वृतो मया ॥ 3-207-3(24064)
एवं भवतु गच्छेति तमुवाच पितामहः।
स एवमुक्तस्तत्पादौ मूर्ध्ना स्पृष्ट्वा जगाम ह ॥ 3-207-4(24065)
सतु धुन्धुर्वरं लब्ध्वा महवीर्यपराक्रमः।
अनुस्मरन्पितृवधं द्रुतं विष्णुमुपागमत् ॥ 3-207-5(24066)
सतु देवान्सगन्धर्वाञ्जित्वा धुन्धुरमर्षणः।
बबाध सर्वानसकृद्विष्णुं देवांश्च वै भृशम् ॥ 3-207-6(24067)
समुद्रवालुकापूर्णे उज्जानक इति स्मृते।
आगम्य च स दुष्टात्मा तं देशं भरतर्षभ।
बाधतेस्म परं शक्त्या तमुदङ्काश्रमं विभो ॥ 3-207-7(24068)
अन्तर्भूमिगतस्तत्र वालुकान्तर्हितस्तथा।
मधुकैटभयोः पुत्रो धुन्धुर्भीमपराक्रमः ॥ 3-207-8(24069)
शेते लोकविनाशाय तपोबलमुपाश्रितः।
उदङ्कस्याश्रमाभ्याशे निःश्वसन्पावकार्चिषः ॥ 3-207-9(24070)
एतस्मिन्नेव काले तु राजा सबलवाहनः।
कुवलाश्वो नरपतिरन्वितो बलशालिनाम् ॥ 3-207-10(24071)
सहस्रैरेकविंशत्या पुत्राणामरिमर्दनः।
प्रायादुदङ्कसहितो धुन्धोस्तस्य वधाय वै ॥ 3-207-11(24072)
तमाविशत्ततो विष्णुर्भगवांस्तेजसा प्रभुः।
उदङ्कस् नियोगेन लोकानां हितकाम्यया ॥ 3-207-12(24073)
तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत्।
एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति ॥ 3-207-13(24074)
दिव्यैश्च पुष्पैस्तं देवाः समन्तात्पर्यवाकिरन्।
देवदुन्दुभयश्चापि नेदुः स्वयमनीरिताः ॥ 3-207-14(24075)
शीतश्च वायुः प्रववौ प्रयाणे तस्य धीमतः।
विपांसुलां महीं कुर्वन्ववर्ष च सुरेश्वरः।
`प्रदक्षिणाश्चाप्यभवन्वन्यास्तं समृगद्विजाः' ॥ 3-207-15(24076)
अन्तरिक्षे विमानानि देवतानां युधिष्ठिर।
तत्रैव समदृश्यन्त धुन्धुर्यत्र महासुरः ॥ 3-207-16(24077)
कुवलाश्वस्य धुन्योश्च युद्धकौतूहलान्विताः।
देवगन्धर्वसहिताः समवैक्षन्महर्षयः ॥ 3-207-17(24078)
नारायणेन कौरव्य तेजसाऽऽप्यायितस्तदा।
स गतो नृपतिः क्षिप्रं पुत्रैस्तैः सर्वतो दिशम् ॥ 3-207-18(24079)
अर्णवं स्वानयामास कुवलाश्वो महीपतिः।
`हितार्तं सर्वलोकानामुदङ्कस्य वशे स्थितः' ॥ 3-207-19(24080)
कुवलाश्वस् पुत्रैश्च तस्मिन्वै वालुकार्णवे।
सप्तभिर्दिवसैः स्वात्वा दृष्टो धुन्धुर्महाबलः ॥ 3-207-20(24081)
आसीद्धोरं वपुस्तस्य वालुकान्तर्हितं महत्।
दीप्यमानं यथा सूर्यस्तेजसा भरतर्षभ ॥ 3-207-21(24082)
ततो धुन्धुर्महाराज दिशमावृत्य पश्चिमाम्।
सुप्तोऽभूद्राजशार्दूल कालानलसमद्युतिः ॥ 3-207-22(24083)
कुवलाश्वस्य पुत्रैस्तु सर्वतः परिवारितः।
अभिद्रुतः शरैस्तीक्ष्णैर्गदाभिर्मुसलैरपि ॥ 3-207-23(24084)
प्टसैः परिधैः प्रासैः खङ्गैश् विमलैः शितैः।
सवध्यमानः संक्रुद्धः समुत्तस्थौ महाबलः ॥ 3-207-24(24085)
क्रुद्धश्चाभक्षयत्तेषां शस्त्राणि विविधानि च।
आस्याद्वमन्पावकं स संवर्तकसमं तदा ॥ 3-207-25(24086)
तान्सर्वान्नृपतेः पुत्रानदहत्स्वेन तेजसा।
मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव ॥ 3-207-26(24087)
क्षणेन राजशार्दूल पुरेव कपिलः प्रभुः।
सगरस्यात्मजान्क्रुद्धस्तदद्भुतमिवाभवत् ॥ 3-207-27(24088)
तेषु क्रोधाग्निदग्धेषु तदा भरतसत्तम।
तं प्रबुद्धं महात्मानं कुम्भकर्णमिवापरम्।
आससाद महातेजाः कुवलाश्वो महीपतिः ॥ 3-207-28(24089)
तस्य वारिमहाराज सुस्राव बहु देहतः।
तत्तदापीयतेतेजो राज्ञा वारिमयं नृप ॥ 3-207-29(24090)
योगी योगेन सृष्टं स समयित्वा च वारिणा।
ब्रह्मास्त्रेण ततो राजा दैत्यंक्रूरपराक्रमम्।
ददाह भरतश्रेष्ठ सर्वलोकभवाय वै ॥ 3-207-30(24091)
सोऽस्त्रेण दग्ध्वा राजर्षिः कुवलाश्वो महासुरम्।
सुरशत्रुममित्रघ्नस्त्रैलोक्येश इवापरः ॥ 3-207-31(24092)
धुन्धोर्वधात्तदा राजा कुवलाश्वो महामनाः।
धुन्धुमार इतिख्यातो नाम्ना समभवत्ततः ॥ 3-207-32(24093)
प्रीतैश्च त्रेदशैः सर्वैर्महर्षिमसितैस्तदा।
परं वृणीष्वत्युक्तः स प्राञ्जलिः प्रणतस्तदा।
अतीव मुदितो राजन्निदंवचनमब्रवीत् ॥ 3-207-33(24094)
दद्यां वित्तं द्विजाग्र्येभ्यः शत्रूणां चापि दुर्जयः।
सख्यं च विष्णुना मे स्याद्भूतेष्वद्रोह एव च।
धर्मे रतिश् सततं स्वर्गे वासस्तथाऽक्षयः ॥ 3-207-34(24095)
तथाऽस्त्विति ततो देवैः प्रीतैरुक्तः स पार्थिवः।
ऋषिभिश्च सगन्धर्वैरुदङ्केन च धीमता ॥ 3-207-35(24096)
संभाष्य चैनं विविधैराशीर्वादैस्ततो नृषम्।
देवा महर्षयश्चापि स्वानि स्तानानि भेजिरे ॥ 3-207-36(24097)
तस्य पुत्रास्त्रयः शिष्टा युधिष्ठिर तदाऽभवन्।
दृढाश्वः कपिलाश्वश्च भद्राश्वश्चैव भारत ॥ 3-207-37(24098)
तेभ्यः परम्परा राजन्निक्ष्वाकूणां महात्मनाम्।
[वंशस्य सुमहाभाग राज्ञाममिततेजसाम्] ॥ 3-207-38(24099)
एवंसं निहतस्तेन कुवलाश्वेन सत्तम।
धुन्धुर्नाम महादैत्यो मधुकैटभयोः सुतः ॥ 3-207-39(24100)
कुवलाश्वश्च नृपतिर्धुन्धुमार इति स्मृतः।
नाम्ना च गुणयुक्तेन तदाप्रभृति सोऽभवत् ॥ 3-207-40(24101)
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि।
धौन्धुमारमुपाख्यानं प्रथितं यस्य कर्मणा ॥ 3-207-41(24102)
इदं तु पुण्यमाख्यानं विष्णोः समनुकीर्तनम्।
शृणुयाद्यः स धर्मात्मा पुत्रवांश्च भवेन्नरः ॥ 3-207-42(24103)
आयुष्मान्भूतिमांश्चैव श्रुत्वा भवति पर्वसु।
न च व्याधिभंयकिंचित्प्राप्नोति विगतज्वरः ॥ 3-207-43(24104)
इति श्रीमन्महाभारते अरण्यपर्वणि गार्कण्डेयसमास्यापर्वणि सप्ताधिकद्विशततमोऽध्यायः ॥ 207 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-207-30 वृष्टिं सगमयित्वाविचारिणा इति क. थ. पाठः। वह्निं च शमयामास वारिणा इति झ. पाठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|